Home > Vedic Heritage Portal > Upanishads - Atharvaveda - Prasanopanisad

 

 

 

 

 

 

Upanishads - Atharvaveda - Prasanopanisad



॥ प्रश्नोपनिषद् ॥

ॐ भद्रं कर्णेभिः शृणुयाम देवाः¬। भद्रं पश्येमाक्षभिर्यजत्राः।
स्थिरैरङ्गैस्तुष्तुवा सस्तनूभिः। व्यशेम देवहितं यदायुः॥
स्वस्ति न इन्द्रो वृद्धश्रवाः।स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः। स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥


ॐ सुकेशा च भारद्वाजः शैब्यश्च सत्यकामः सौर्यायणी
च गार्ग्यः कौसल्यश्चाश्वलायनो भार्गवो वैदर्भिः कबन्धी
कात्यायनस्ते हैते ब्रह्मपरा ब्रह्मनिष्ठाः परं
ब्रह्मान्वेषमाणा एष ह वै तत्सर्वं वक्ष्यतीति ते ह
समित्पाणयो भगवन्तं पिप्पलादमुपसन्नाः ॥ १॥
तान्ह स ऋषिरुवाच भूय एव तपसा ब्रह्मचर्येण श्रद्धया
संवत्सरं संवत्स्यथ यथाकामं प्रश्नान्पृच्छत यदि विज्ञास्यामः
सर्वं ह वो वक्ष्याम इति ॥ २॥
अथ कबन्धी कत्यायन उपेत्य पप्रच्छ ।
भगवन्कुतो ह वा इमाः प्रजाः प्रजायन्त इति ॥ ३॥
तस्मै स होवाच प्रजाकामो वै प्रजापतिः स तपोऽतप्यत
स तपस्तप्त्वा स मिथुनमुत्पादयते । रयिं च प्रणं
चेत्येतौ मे बहुधा प्रजाः करिष्यत इति ॥ ४॥
आदित्यो ह वै प्राणो रयिरेव चन्द्रमा रयिर्वा
एतत्सर्वं यन्मूर्तं चामूर्तं च तस्मान्मूर्तिरेव रयिः ॥ ५॥
अथादित्य उदयन्यत्प्राचीं दिशं प्रविशति तेन प्राच्यान्प्राणान् रश्मिषु सन्निधत्ते ।
यद्दक्षिणां यत् प्रतीचीं यदुदीचीं यदधो यदूर्ध्वं यदन्तरा दिशो यत्सर्वं प्रकाशयति
तेन सर्वान्प्राणान्रश्मिषु सन्निधत्ते ॥ ६॥
स एष वैश्वानरो विश्वरुपः प्राणोऽग्निरुदयते ।
तदेतदृचाऽभ्युक्तम् ॥ ७॥
विश्वरूपं हरिणं जातवेदसं
परायणं ज्योतिरेकं तपन्तम् ।
सहस्ररश्मिः शतधा वर्तमानः
प्राणः प्रजानामुदयत्येष सूर्यः ॥ ८॥
संवत्सरो वै प्रजापतिस्तस्यायने दक्षिणं चोत्तरं च ।
तद्ये ह वै तदिष्टापूर्ते कृतमित्युपासते ते चान्द्रमसमेव
लोकमभिजयन्ते । त एव पुनरावर्तन्ते तस्मादेत ऋषयः
प्रजाकामा दक्षिणं प्रतिपद्यन्ते । एष ह वै रयिर्यः
पितृयाणः ॥ ९॥
अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया
विद्ययात्मानमन्विष्यादित्यमभिजयन्ते । एतद्वै
प्राणानामायतनमेतदमृतमभयमेतत्परायणमेतस्मान्न
पुनरावर्तन्त इत्येष निरोधः। तदेष श्लोकः ॥ १०॥
पञ्चपादं पितरं द्वादशाकृतिं
दिव आहुः परे अर्धे पुरीषिणम् ।
अथेमे अन्य उ परे विचक्षणं
सप्तचक्रे षडर आहुरर्पितमिति ॥ ११॥
मासो वै प्रजापतिस्तस्य कृष्णपक्ष एव रयिः
शुक्लः प्राणस्तस्मादेत ऋषयः शुक्ल इष्टं कुर्वन्तीतर
इतरस्मिन् ॥ १२॥
अहोरात्रो वै प्रजापतिस्तस्याहरेव प्राणो रात्रिरेव रयिः
प्राणं वा एते प्रस्कन्दन्ति ये दिवा रत्या संयुज्यन्ते
ब्रह्मचर्यमेव तद्यद्रात्रौ रत्या संयुज्यन्ते ॥ १३॥
अन्नं वै प्रजापतिस्ततो ह वै तद्रेतस्तस्मादिमाः प्रजाः
प्रजायन्त इति ॥ १४॥
तद्ये ह वै तत्प्रजापतिव्रतं चरन्ति ते मिथुनमुत्पादयन्ते ।
तेषामेवैष ब्रह्मलोको येषां तपो ब्रह्मचर्यं येषु सत्यं
प्रतिष्टितम् ॥ १५॥
तेषामसौ विरजो ब्रह्मलोको न येषु जिह्ममनृतं न
माया चेति ॥ १६॥
इति प्रश्नोपनिषदि प्रथमः प्रश्नः ॥

अथ हैनं भार्गवो वैदर्भिः पप्रच्छ भगवन्कत्येव
देवाः प्रजां दिधारयन्ते कतर एतत्प्रकशयन्ते कः
पुनरेषां वरिष्ठ इति ॥ १ ॥
तस्मै स होवाच। आकाशो ह वा एष देवो वायुरग्निरापः
पृथिवी वाङ्मनश्चक्षुः श्रोत्रं च । ते प्रकाश्याभिवदन्ति
वयमेतद्बाणमवष्टभ्य विधारयामः ॥ २ ॥
तान्वरिष्ठः प्राण उवाच मा मोहमापद्यथाहमेवैतत्पञ्चधात्मानं
प्रविभज्यैतद्बाणमवष्टभ्य विधारयामीति तेऽश्रद्दधाना बभूवुः ॥ ३ ॥
सोऽभिमानादूर्ध्वमुत्क्रामत इव तस्मिन्नुत्क्रामत्यथेतरे सर्व
एवोत्क्रामन्ते तस्मिंश्च प्रतिष्ठमाने सर्व एव प्रतिष्ठन्ते ।
तद्यथा मक्षिका मधुकरराजानमुत्क्रामन्तं सर्वा एवोत्क्रमन्ते
तस्मिंश्च प्रतिष्ठमाने सर्वा एव प्रातिष्टन्त एवं वाङ्मनश्चक्षुः
श्रोत्रं च ते प्रीताः प्राणं स्तुन्वन्ति ॥ ४ ॥
एषोऽग्निस्तपत्येष सूर्य एष पर्जन्यो मघवानेष वायुः
एष पृथिवी रयिर्देवः सदसच्चामृतं च यत् ॥ ५ ॥
अरा इव रथनाभौ प्राणे सर्वं प्रतिष्ठितम् ।
ऋचो यजूषि सामानि यज्ञः क्षत्रं ब्रह्म च ॥ ६ ॥
प्रजापतिश्चरसि गर्भे त्वमेव प्रतिजायसे ।
तुभ्यं प्राण प्रजास्त्विमा बलिं हरन्ति
यः प्रणैः प्रतितिष्ठसि ॥ ७ ॥
देवानामसि वह्नितमः पितृणां प्रथमा स्वधा ।
ऋषीणां चरितं सत्यमथर्वाङ्गिरसामसि ॥ ८ ॥
इन्द्रस्त्वं प्राण तेजसा रुद्रोऽसि परिरक्षिता ।
त्वमन्तरिक्षे चरसि सूर्यस्त्वं ज्योतिषां पतिः ॥ ९ ॥
यदा त्वमभिवर्षसि अथेमाः प्राण ते प्रजाः ।
आनन्दरूपास्तिष्ठन्ति कामायान्नं भविष्यतीति ॥ १० ॥
व्रात्यस्त्वं प्राणैकर्षिरत्ता विश्वस्य सत्पतिः ।
वयमाद्यस्य दातारः पिता त्वं मातरिश्व नः ॥ ११ ॥
या ते तनूर्वाचि प्रतिष्ठिता या श्रोत्रे या च चक्षुषि ।
या च मनसि सन्तता शिवां तां कुरू मोत्क्रमीः ॥ १२ ॥
प्राणस्येदं वशे सर्वं त्रिदिवे यत् प्रतिष्ठितम् ।
मातेव पुत्रान्रक्षस्व श्रीश्च प्रज्ञां च विधेहि न इति ॥ १३ ॥

इति प्रश्नोपनिषदि द्वितीयः प्रश्नः ॥

अथ हैनं कौशल्यश्चाश्वलायनः पप्रच्छ । भगवन्कुत
एष प्राणो जायते कथमायात्यस्मिञ्शरीर आत्मानं वा
प्रविभज्य कथं प्रतिष्ठते केनोत्क्रमते कथं बाह्यमभिधते
कथमध्यात्ममिति ॥ १॥
तस्मै स होवाचातिप्रश्नान्पृच्छसि ब्रह्मिष्ठोऽसीति
तस्मात्तेऽहं ब्रवीमि ॥२॥
आत्मन एष प्राणो जायते । यथैषा पुरुषे
छायैतस्मिन्नेतदाततं मनोकृतेनायात्यस्मिञ्शरीरे ॥३॥
यथा सम्राडेवाधिकृतान्विनियुङ्क्ते एतन्ग्रामानेतान्ग्रामानधितिष्टस्वेत्येवमेवैष
प्राण इतरान्प्राणान्पृथक्पृथगेव सन्निधत्ते॥४॥
पायूपस्थेऽपानं चक्षुःश्रोत्रे मुखनासिकाभ्यां प्राणः स्वयं
प्रातिष्ठते मध्ये तु समानः । एष ह्येतद्धुतमन्नं समं नयति
तस्मादेताः सप्तार्चिषो भवन्ति ॥ ५॥
हृदि ह्येष आत्मा । अत्रैतदेकशतं नाडीनं तासां शतं
शतमेकैकस्या द्वासप्ततिर्द्वासप्ततिः
प्रतिशाखानाडीसहस्राणि
भवन्त्यासु व्यानश्चरति ॥ ६॥
अथैकयोर्ध्व उदानः पुण्येन पुण्यं लोकं नयति पापेन
पापमुभाभ्यामेव मनुष्यलोकम् ॥ ७॥
आदित्यो ह वै बाह्यः प्राण उदयत्येष ह्येनं चाक्षुषं
प्राणमनुगृह्णानः । पृथिव्यां या देवता सैषा पुरुषस्यापानमवष्टभ्यान्तरा
यदाकाशः स समानो वायुर्व्यानः ॥ ८॥
तेजो ह वाव उदानस्तस्मादुपशान्ततेजाः । पुनर्भवमिन्द्रियैर्मनसि सम्पध्यमानैः ॥ ९॥
यच्चित्तस्तेनैष प्राणमायाति । प्राणस्तेजसा युक्तः सहात्मना
तथासङ्कल्पितं लोकं नयति ॥ १०॥
य एवं विद्वान्प्राणं वेद न हास्य प्रजा हीयतेऽमृतो
भवति तदेषः श्लोकः ॥ ११॥
उत्पत्तिमायतिं स्थानं विभुत्वं चैव पञ्चधा ।
अध्यात्मं चैव प्राणस्य विज्ञायामृतमश्नुते विज्ञायामृतमश्नुत इति ॥ १२॥
इति प्रश्नोपनिषदि तृतीयः प्रश्नः ॥
अथ हैनं सौर्यायणि गार्ग्यः पप्रच्छ भगवन्नेतस्मिन्पुरुषे
कानि स्वपन्ति कान्यस्मिञ्जाग्रति कतर एष देवः
स्वप्नान्पश्यति कस्यैतत्सुखं भवति कस्मिन्नु सर्वे
सम्प्रतिष्टिता भवन्तीति ॥ १॥
तस्मै स होवाच यथा गार्ग्य मरीचयोऽर्कस्यास्तं
गच्छतः सर्वा एतस्मिंस्तेजोमण्डल एकीभवन्ति ताः पुनः
पुनरुदयतः प्रचरन्त्येवं ह वै तत्सर्वं परे देवे मनस्येकीभवति
तेन तर्ह्येष पुरुषो न शृणोति न पश्यति न
जिघ्रति न रसयते न स्पृशते नाभिवदते नादत्ते नानन्दयते
न विसृजते नेयायते स्वपितीत्याचक्षते ॥ २॥
प्राणाग्नय एवैतस्मिन्पुरे जाग्रति । गार्हपत्यो
वा एषोऽपानो व्यानोऽन्वाहार्यपचनो यद्गार्हपत्यात्प्रणीयते
प्रणयनादाहवनीयः प्राणः ॥ ३॥
यदुच्छ्वासनिःश्वासावेतावाहुती समं नयतीति स समानः ।
मनो ह वाव यजमान इष्टफलमेवोदानः स
एनं यजमानमहरहर्ब्रह्म गमयति ॥ ४॥
अत्रैष देवः स्वप्ने महिमानमनुभवति । यद्दृष्टं दृष्टमनुपश्यति
श्रुतं श्रुतमेवार्थमनुशृणोति देशदिगन्तरैश्च प्रत्यनुभूतं
पुनः पुनः प्रत्यनुभवति दृष्टं चादृष्टं च श्रुतं चाश्रुतं
चानुभूतं चाननुभूतं च सच्चासच्च सर्वं पश्यति सर्वः पश्यति ॥ ५॥
स यदा तेजसाऽभिभूतो भवति । अत्रैष देवः स्वप्नान्न
पश्यत्यथैतदस्मिञ्शरीरे एतत्सुखं भवति ॥ ६॥
स यथा सोम्य वयांसि वसोवृक्षं सम्प्रतिष्ठन्ते ।
एवं ह वै तत्सर्वं पर आत्मनि सम्प्रतिष्ठते ॥ ७॥
पृथिवी च पृथिवीमात्रा चापश्चापोमात्रा च तेजश्च
तेजोमात्रा च वायुश्च वायुमात्रा चाकाशश्चाकाशमात्रा
च चक्षुश्च द्रष्टव्यं च श्रोत्रं च श्रोतव्यं च घाणं च
घ्रातव्यं च रसश्च रसयितव्यं च त्वक्च स्पर्शयितव्यं च
वाक्च वक्तव्यं च हस्तौ चादातव्यं चोपस्थश्चानन्दयितव्यं
च पायुश्च विसर्जयितव्यं च यादौ च गन्तव्यं च मनश्च
मन्तव्यं च बुद्धिश्च बोद्धव्यं चाहङ्कारश्चाहङ्कर्तव्यं च
चित्तं च चेतयितव्यं च तेजश्च विद्योतयितव्यं च प्राणश्च
विधारयितव्यं च ॥ ८॥
एष हि द्रष्टा स्प्रष्टा श्रोता घ्राता रसयिता मन्ता
बोद्धा कर्ता विज्ञानात्मा पुरुषः । स परेऽक्षर आत्मनि
सम्प्रतिष्ठते ॥ ९॥
परमेवाक्षरं प्रतिपद्यते स यो ह वै
तदच्छायमशरीरम्लोहितं
शुभ्रमक्षरं वेदयते यस्तु सोम्य । स सर्वज्ञः सर्वो भवति
तदेष श्लोकः ॥ १०॥
विज्ञानात्मा सह देवैश्च सर्वैः
प्राणा भुतानि सम्प्रतिष्ठन्ति यत्र।
तदक्षरं वेदयते यस्तु सोम्य
स सर्वज्ञः सर्वमेवाविवेशेति ॥ ११॥
इति प्रश्नोपनिषदि चतुर्थः प्रश्नः ॥
अथ हैनं शैब्यः सत्यकामः पप्रच्छ । स यो ह
वै तद्भगवन्मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत
कतमं वाव स तेन लोकं जयतीति॥ १॥
तस्मै स होवाच । एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कारः ।
तस्माद्विद्वानेतेनैवायतनेनैकतरमन्वेति ॥ २॥
स यध्येकमात्रमभिध्यायीत स तेनैव संवेदितस्तूर्णमेव
जगत्याभिसम्पध्यते । तमृचो मनुष्यलोकमुपनयन्ते स तत्र
तपसा ब्रह्मचर्येण श्रद्धया सम्पन्नो महिमानमनुभवति ॥ ३॥
अथ यदि द्विमात्रेण मनसि सम्पध्यते सोऽन्तरिक्षं यजुर्भिरुन्नीयते सोमलोकम् ।
स सोमलोके विभूतिमनुभूय पुनरावर्तते ॥ ४॥
यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभि-
ध्यायीत स तेजसि सूर्ये सम्पन्नः । यथा पादोदरस्त्वचा
विनिर्मुच्यत एवं ह वै स पाप्मना विनिर्भुक्तः स
सामभिरुन्नीयते ब्रह्मलोकं स एतस्माज्जीवघनात्परात्परं
पुरुशयं पुरुषमीक्षते । तदेतौ श्लोकौ भवतः ॥ ५॥
तिस्रो मात्रा मृत्युमत्यः प्रयुक्ता
अन्योन्यसक्ताः अनविप्रयुक्ताः ।
क्रियासु बाह्याभ्यन्तरमध्यमासु
सम्यक्प्रयुक्तासु न कम्पते ज्ञः ॥ ६॥
ऋग्भिरेतं यजुर्भिरन्तरिक्षं
सामभिर्यत्तत्कवयो वेदयन्ते ।
तमोङ्कारेणैवायतनेनान्वेति विद्वां-
न्यत्तच्छान्तमजरममृतमभयं परं चेति ॥ ७॥
इति प्रश्नोपनिषदि पञ्चमः प्रश्नः ॥
अथ हैनं सुकेशा भारद्वाजः पप्रच्छ । भगवन्हिरण्यनाभः
कौसल्यो राजपुत्रो मामुपेत्यैतं प्रश्नमपृच्छत षोडशकलं
भारद्वाज पुरुषं वेत्थ । तमहं कुमारम्ब्रवं नाहमिमं वेद
यद्यहमिममवेदिषं कथं ते नावक्ष्यमिति, समूलो वा
एष परिशुष्यति योऽनृतमभिवदति तस्मान्नार्हाम्यनृतं वक्तुम् ।
स तूष्णीमेव रथमारुह्य प्रवव्राज । तं त्वा पृच्छामि क्वासौ
पुरुष इति ॥ १॥
तस्मै स होवाच इहैवान्तःशरीरे सोम्य स पुरुषो
यस्मिन्नेताः षोडशकलाः प्रभवन्तीति ॥ २॥
स ईक्षाञ्चक्रे कस्मिन्नहमुत्क्रान्त उत्क्रान्तो भविष्यामि
कस्मिन्वा प्रतिष्ठिते प्रतिष्ठस्यामीति ॥ ३॥
स प्राणमसृजत प्राणाच्छ्रद्धां खं वायुर्ज्योतिरापः
पृथिवीन्द्रियं मनः । अन्नमन्नाद्वीर्यं तपो मन्त्राः कर्मलोका
लोकेषु च नाम च ॥ ४॥
स यथेमा नध्यः स्यन्दमानाः समुद्रायणाः समुद्रं प्राप्यास्तं
गच्छन्ति भिध्येते तासां नामरुपे समुद्र इत्येवं प्रोच्यते ।
एवमेवास्य परिद्रष्टुरिमाः षोडशकलाः पुरुषायणाः पुरुषं
प्राप्यास्तं गच्छन्ति भिध्येते चासां नामरुपे पुरुष इत्येवं
प्रोच्यते स एषोऽकलोऽमृतो भवति तदेष श्लोकः ॥ ५॥
अरा इव रथनाभौ कला यस्मिन्प्रतिष्ठिताः ।
तं वेध्यं पुरुषं वेद यथा मा वो मृत्युः परिव्यथा इति ॥ ६॥
तान्होवाचैतावदेवाहमेतत्परं ब्रह्म वेद नातः परमस्तीति ॥ ७॥
ते तमर्चयन्तस्त्वं हि नः पिता योऽस्माकमविद्यायाः परं पारं तारयसीति ।
नमः परमऋषिभ्यो नमः परमऋषिभ्यः ॥ ८॥
इति प्रश्नोपनिषदि षष्ठः प्रश्नः ॥
ॐ भद्रं कर्णेभिः शृणुयाम देवाः। भद्रं पश्येमाक्षभिर्यजत्राः।
स्थिरैरङ्गैस्तुष्तुवासस्तनूभिः। व्यशेम देवहितं यदायुः ॥
स्वस्ति न इन्द्रो वृद्धश्रवाः। स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः। स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
 

 

Vedic Heritage Portal

   

 

 


HomeSearchContact usIndex

[ Home | Search  | Contact UsIndex ]

 


 Copyright IGNCA© 2016